(1)
मरणं मंगलं यत्र विभूतिश्च विभूषणम् |
कौपीनं यत्र कौशेयं सा काशी केन मीयते || ( ‘ वाराणसी ‘ पाठ से )

(2)
नितरां नीचोsस्मीति त्वं खेदं कूप! कदापि मा कृथा: |
अत्यन्तसरसहृदयो यत: परेषां गुणग्रहीतासि ||
(‘अन्योक्तिविलास: ‘ पाठ से

(3)
रात्रिर्गमिष्यति भविष्यति सुप्रभातं,
भास्वानुदेष्यति हसिष्यति पंकजालि:|
इत्थं विचिन्तयति कोशगते व्दिरेफे,
हा हन्त ! हन्त ! नलिनीं गज उज्जहार ||
(‘अन्योक्तिविलास:’ पाठ: से )

(4)
बन्धनं मरणं वापि जयो वापि पराजय: |
उभयत्र समो वीर: वीरभावो हि वीरता ||
(‘वीर: वीरेण पूज्यते’ पाठ से )

(5)
उत्तरं यत् समुद्रस्य हिमाद्रेश्चैव दक्षिणम् |
वर्ष तद् भारतं नाम भारती यत्र सन्तति:||
(‘वीर: वीरेण पूज्यते’पाठ से )

(6)
अपदो दूरगामी च साक्षरो न च पण्डित: |
अमुख: स्फुटवक्ता च यो जानाति स पण्डित: ||
(‘प्रबुध्दो ग्रामीण:’ पाठ से )

(7)
सर्वे भवन्तु सुखिन: सर्वे सन्तु निरामया: |
सर्वे भद्राणि पश्यन्तु मा कश्चिद् दु:खभाग् भवेत ||
(‘भारतीया संस्कृति:’ पाठ से )

(8)
माता गुरुतरा भूमे: खात् पितोच्चतरस्तथा |
मन: शीघ्रतरं वातात् चिन्ता बहुतरी तृणात् ||

(9)
सार्थ: प्रवसतो मित्रं भार्या मित्रं गृहे सत: |
आतुरस्य भिषक् मित्रं दानं मित्रं मरिष्यत: ||

(10)
दाक्ष्यमेकपदं धर्म्यम् दानमेकपदं यश: |
सत्यमेकपदं स्वर्ग्यं शीलमेकदं सुखम् ||

(11)‌
धान्यानामुत्तमं दाक्ष्यं धनानामुत्तमं श्रुतम् |
लाभानां श्रेय आरोग्यं सुखानां तृष्टिरुत्तमा ||

(12)
मानं हित्वा प्रियो भवति क्रोधं हित्वा न शोचति |
कामं हित्वार्थवान् भवति लोभं हित्वा सुखी भवेत् ||


Leave a Reply

Your email address will not be published.

*

वेबसाइट के होम पेज पर जाने के लिए क्लिक करे

Donate Now

Please donate for the development of Hindi Language. We wish you for a little amount. Your little amount will help for improve the staff.

कृपया हिंदी भाषा के विकास के लिए दान करें। हम आपको थोड़ी राशि की कामना करते हैं। आपकी थोड़ी सी राशि कर्मचारियों को बेहतर बनाने में मदद करेगी।

[paytmpay]